(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.97. अध्यायः 097
Mahabharata - Karna Parva - Chapter Topics
रणे हीयमानेन कर्णेनार्जुनस्य शिरो लक्षीकृत्य नागास्त्रप्रयोगः॥ 1 ॥ कृष्णेन पार्थरथे पादनिपीडनेन धरण्यां किञ्चिन्निमज्जिते तदस्त्रेण शिरोवर्जं पार्थकिरीटमात्रापहारः॥ 2 ॥ कर्णस्य रथचक्रे विप्रशापात् धरण्यां निमग्ने तदुद्दिधीर्षया तेनपार्थंप्रति मुहूर्तमयुद्धप्रार्थनम्॥ 3 ॥
Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-97-0x(5062)(59712)
ततोऽपयाताः शरपातमात्र--
मवस्थिता वै कुरवो नरेन्द्र।
विद्युत्प्रकाशं ददृशुः समन्ता--
द्वनञ्जयास्त्रं समुदीर्यमाणम्॥ 8-97-1(59713)
ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य
वियद्गतं घोरतरं शरैस्तत्।
क्रुद्धेन पार्थेन शरं विसृष्टं
वधाय कर्णस्य महाविमर्दे॥ 8-97-2(59714)
[उदीर्यमाणं स्म कुरून्दहन्तं
सुवर्णपुङ्खैर्विशिखैर्ममर्द।
कर्णस्त्वमोघेष्वसनं दृढज्यं
विस्फारयित्वा विसृजञ्छरोघान्॥] 8-97-3(59715)
रामादुपात्तेन महामहिम्ना
ह्याथर्वणेनारिविनाशनेन।
तदर्जुनास्त्रं व्यधमद्दहन्तं
पार्थं च बाणैर्निशितैरविध्यत्॥ 8-97-4(59716)
ततो विमर्दः सुमहान्बभूव
तत्रार्जुनस्याधिरथेश्च राजन्।
अन्योन्यमासादयतोः पृषत्कै--
र्विषाणघातैर्द्विपयोरिवाजौ॥ 8-97-5(59717)
ततोऽस्त्रसङ्घातसमावृतं तदा
बभूव राजंस्तुमुलं रणाजिरम्।
यत्कर्णपार्थौ शरवृष्टिसङ्घै--
र्निरन्तरं चक्रतुरम्बरं तदा॥ 8-97-6(59718)
[ततो जालं बाणमयं महान्तं
सर्वेऽद्राक्षुः कुरवः सोमकाश्च।
नान्यं च भूतं ददृशुस्तदा ते
बाणान्धकारे तुमुलेऽथ किञ्चित्॥ 8-97-7(59719)
तौ सन्दधानावनिशं च राजन्।
समस्यन्तौ चापि शराननेकान्।
सन्दर्शयेतां युधि मार्गान्विचित्रा--
न्धनुर्धरौ तौ विविधैः कृतास्त्रैः॥ 8-97-8(59720)
तयोरेवं युध्यतोराजिमध्ये
सूतात्मजोऽभूदधिकः कदाचित्।
पार्थः कदाचित्त्वधिकः किरीटि
वीर्यास्त्रमायाबलपौरुषेण॥ 8-97-9(59721)
दृष्ट्वा तयोस्तं युधि सम्प्रहारं
परस्परस्यान्तरमीक्षमाणयोः।
घोरं तयोर्दुर्विषहं रणेऽन्यै--
र्योधाः सर्वे विस्मयमभ्यगच्छन्॥ 8-97-10(59722)
ततो भूतान्यन्तरिक्षस्थितानि
तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र।
भोः कर्ण साध्वर्जुन साधु चेति
वियत्सु वाणी श्रूयते सर्वतोपि॥ 8-97-11(59723)
तस्मिन्विमर्दे रथवाजिनागै--
स्तदाऽभिघातैर्दलिते हि भूतले।
ततस्तु पातालतले शयानो
नागोऽश्वसेनः कृतवैरोऽर्जुनेन॥ 8-97-12(59724)
राजंस्तदा खाण्डवदाहमुक्तो
विवेश कोपाद्वसुधातले यः।
अथोत्पपातोर्ध्वगतिर्जवेन
सन्दृश्य कर्णार्जुनयोर्विमर्दम्॥ 8-97-13(59725)
अयं हि कालोस्य दुरात्मनो वै
पार्थस्य वैरप्रतियातनाय।
सञ्चिन्त्य तूर्णं प्रविवेश चैव
कर्णस्य राजन्शररूपधारी॥ 8-97-14(59726)
ततोस्त्रसङ्घातसमाकुलं तदा
बभूव जन्यं विततांशुजालम्।
तत्कर्णपार्थो शरसङ्घवृष्टिभि--
र्निरन्तरं चक्रतुरम्बरं तदा॥ 8-97-15(59727)
तद्बाणजालैकमयं महान्तं
सर्वेऽत्रसन्कुरवः सोमकाश्च।
नान्यत्किञ्चिद्ददृशुः सम्पतद्वै
बाणान्धकारे तुमुलेऽतिमात्रम्॥ 8-97-16(59728)
ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ।
त्यक्तप्राणौ रणे वीरो युद्धश्रममुपागतौ॥ 8-97-17(59729)
समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा।
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः।
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ॥ 8-97-18(59730)
कर्णोऽथ पार्थं न विशेषयद्यदा
भृशं च पार्थेन शराभितप्तः।
ततस्तु वीरः शरविक्षताङ्गो
दध्रे मनो ह्येकशयस्य तस्य॥] 8-97-19(59731)
ततो रिपुघ्नं समधत्त कर्णः
सुसञ्चितं सर्पमुखं ज्वलन्तम्।
रौद्रं शरं सन्नतमुग्रधौतं
पार्थार्थमित्येव चिराभिगुप्तम्॥ 8-97-20(59732)
सदार्चितं चन्दनचूर्णशायितं
सुवर्णतूणीरशयं महार्चिषम्।
आकर्णपूर्णं विचकर्ष कर्णो
विमोक्तुकामः शरमुग्रवेगम्॥ 8-97-21(59733)
प्रदीप्तमैरावतवंशसम्भवं
शिरो जिहीर्षुर्युधि सव्यसाचिनः।
ततः प्रजज्वाल दिशो नभश्च
उल्काश्च घोराः शतशः प्रपेतुः॥ 8-97-22(59734)
तस्मिंस्तु नागे धनुषि प्रयुक्ते
हाहाकृता लोकपालाः सशक्राः॥ 8-97-23(59735)
स सूतपुत्रस्तमपाङ्गदेशे
अवाङ्मुखं सन्धयति स्म रोषात्।
न तं स्म जानाति महानुभाव--
मपाङ्गदेशेऽभिनिविष्टमाजौ॥ 8-97-24(59736)
[न चापि तं बुबुधे सूतपुत्रो
बाणे प्रविष्टं योगबलेन नागम्।
दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं
निहत इति सुतो मे स्रस्तगात्रो बभूव।
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा
त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः॥ 8-97-25(59737)
ततोऽब्रवीन्मद्रराजो महात्मा
दृष्ट्वा कर्णं प्रहितेषु तमुग्रम्।
ग्रीवायतः कर्ण न संहितोऽयं
समीक्ष्य सन्धत्स्व शरं परघ्नम्॥ 8-97-26(59738)
अथाब्रवीत्क्रोधसंरक्तनेत्रो
मद्राधिपं सूतपुत्रो मनस्वी।
न सन्धत्ते द्विः शरं शल्य कर्णो
न मादृशा जिह्मयुद्वा भवन्ति॥ 8-97-27(59739)
इतीदमुक्त्वा विससर्ज तं शरं
प्रयत्नतो वर्षगणाभिपूजितम्।
हतोसि रे फल्गुन इत्यधिक्षिप--
न्नुवाच चोच्चैर्निरमूर्जितां वृषः॥ 8-97-28(59740)
स सायकः कर्णभुजप्रसृष्टो
हुताशनार्कप्रतिमः सुघोरः।
गुणच्युतः कर्णधनुःप्रमुक्तो
वियद्गतः प्राज्वलदन्तरिक्षे॥ 8-97-29(59741)
तमापतन्तं ज्वलितं निरीक्ष्य
वियद्गतं वृष्णिकुलप्रवीरः।
रथस्य चक्रं सहसा निपीड्य
पञ्चाङ्गुलं मज्जयति स्म वीरः॥ 8-97-30(59742)
ततोऽन्तरिक्षे सुमहान्निनादः
सम्पूजनार्थं मधुसूदनस्य।
[दिव्याश्च वाचः सहसा बभूवु--
र्दिव्यानि पुष्पाण्यथ सिंहनादाः।
तस्मिंस्तथा वै धरणीं निमग्ने
रथे प्रयत्नान्मधुसूदनस्य॥] 8-97-31(59743)
ततः किरीटं बहुरत्नचित्रं
जघान नागोऽर्जुनमूर्धतो बलात्।
गिरेः सुजाताङ्कुरपुष्पितद्रुमं
महेन्द्रवज्रं शिखरं यथोत्तमम्॥ 8-97-32(59744)
ततः किरीटं तपनीयचित्रं
पार्थोत्तमाङ्गादहरत्तरस्वी।
तद्धेमजालावनतं सुघोरं
सम्प्रज्वलत्तन्निपपात भूमौ॥ 8-97-33(59745)
ततोऽर्जुनस्योत्तमगात्रभूषणं
सुवर्णमुक्तामणिवज्रचित्रितम्।
धरावियद्द्योसलिलेषु विश्रुतं
बलं निसर्गोत्तममन्युधिः सदा॥ 8-97-34(59746)
शरेण मूर्ध्नि प्रजहार सूतजो
दिवाकरेन्दुज्वलनग्रहत्विषम्।
सुवर्णमुक्तामणिवज्रभूषणं
पुरन्दरार्थं तपसा प्रयत्नतः॥ 8-97-35(59747)
स्वयं कृतं यद्विधिना स्वयम्भुवा
महार्हरूपं द्विषतां भयङ्करम्।
निजघ्नते देवरिपून्सुरेश्वरः
स्वयं ददौ यद्धि मुदाऽर्जुनाय॥ 8-97-36(59748)
हरिप्रचेतोहरिवित्तगोप्तृभिः
पिनाकपाशाशनिदण्डधारिभिः।
सुरोत्तमैरप्यविषह्यमर्दितुं
प्रसह्य नागेन जहार तद्वृषा॥ 8-97-37(59749)
तदुत्तमेषून्मथितं विषाहिना
प्रदीप्तमर्चिष्मदतीव सुन्दरम्।
पपात पार्थस्य किरीटमुत्तमं
दिवाकरोस्तादिव पर्वताज्ज्वलन्॥ 8-97-38(59750)
महीवियद्द्योसलिलानि वायुना
प्रसह्य रुग्णानि विघूर्णितानि वा।
इतीव शब्दं भुवनेषु तत्तथा
जना व्यवस्यन्ति दिशश्च विह्वलाः॥ 8-97-39(59751)
विना किरीटं* शुशुभे स पार्थः
श्यामो युवा शैल त्रिशृङ्गैः॥ 8-97-40(59752)
ततः समुद्ग्रथ्य सितेन वाससा
स्वमूर्धजनाव्यथितस्तदाऽर्जुनः।
बभौ सुसम्पूर्णमरीचिनेन्दुना
शिरोगतेनोदयपर्वतो यथा॥ 8-97-41(59753)
स चापि राधेयभुजप्रमुक्तो
हुताशनार्कप्रतिमद्युतिर्महान्।
महोरगः कृतवैरोऽर्जुनेन
किरीटमाहृत्य समुत्पपात॥ 8-97-42(59754)
तमुत्पतन्तं द्विपदां वरिष्ठो
दृष्ट्वा वचः पार्थमुवाच कृष्णः।
महोरगं पाण्डव पश्यपश्य
प्रयोजितं त्वन्निधनार्थमुग्रम्॥ 8-97-43(59755)
स एवमुक्तो मधुसूदनेन
गाण्डीवधन्वा हरिमुग्रवाचा।
उवाच को न्वेष ममाद्य नागः
क्षयाय नागाद्गरुडस्य वक्रम्॥ 8-97-44(59756)
कृष्ण उवाच। 8-97-45x(5063)
योऽसौ त्वया खाण्डवे चित्रभानुं
सन्तर्पयाणेन धनुर्धरेण।
वियद्गतो जननीगुप्तदेहो
मत्वैकरूपं निहताऽस्य माता॥ 8-97-45(59757)
स एष तद्वैरमनुस्मरन्वै
त्वां प्रार्थयत्यात्मवधाय नूनम्।
नभश्चुतां प्रज्वलितामिवोल्कां
पश्यैनमायान्तममित्रसाह॥ 8-97-46(59758)
सञ्जय उवाच। 8-97-47x(5064)
ततः स जिष्णुः परिवृत्य रोषा--
च्चिच्छेद षड्भिर्निशितैः सुधारैः।
नागं वियत्तिर्यगिवोत्पततं
स च्छिन्नगात्रो निपपात भूमौ॥ 8-97-47(59759)
[गते च तस्मिन्भुजगे किरीटिना
स्वयं विभुः पार्थिव भूतलादथ।
समुज्जहाराशु पुनः पतन्तं
रथं भुजाभ्यां पुरुषोत्तमस्ततः॥] 8-97-48(59760)
तस्मिन्मुहूर्ते दशभिः पृषत्कैः
सिलाशितैर्बर्हिणबर्हवाजितैः।
विव्याध कर्णः पुरुषप्रवीरो
धनञ्जयं तिर्यगवेक्षमाणः॥ 8-97-49(59761)
ततोऽर्जुनो द्वादशभिः सुमुक्तै--
र्वराहकर्णैर्जिशितैः समर्प्य।
नाराचमाशीविषतुल्यवेग--
माकर्णपूर्णायतमुत्ससर्ज॥ 8-97-50(59762)
स चित्रवर्मेषुवरो विदार्य
प्राणान्निरस्यन्निव साधुमुक्तः।
कर्णस्य पीत्वा रुधिरं विवेश
वसुन्धरां शोणितदिग्धवाजः॥ 8-97-51(59763)
ततो वृषो बाणनिपातकोपितो
महोरगो दण्डविघट्टितो यथा।
तदाऽऽशुकारी व्यसृजच्छरोत्तमान्
महाविषः सर्प इवोत्तमं विषम्॥ 8-97-52(59764)
जनार्दनं द्वादशभिः पराभिन--
न्नवैर्नवत्या च शरैस्तथाऽर्जुनम्।
शरेण घोरेण पुनश्च पाण्डवं
विदार्य कर्णो व्यनदज्जहास च॥ 8-97-53(59765)
तमस्य हर्षं ममृषे न पाण्डवो
बिभेद मर्माणि ततोऽस्य मर्मवित्।
परःशतैः पत्रिभिरिन्द्रविक्रम--
स्तथा यथेन्द्रो बलमोजसा रणे॥ 8-97-54(59766)
ततः शराणां नवतिं तदाऽर्जुनः
ससर्ज कर्णेऽन्तकदण्डसन्निभाम्।
तैः पत्रिभिर्विद्धतनुः स विव्यथे
तथा यथा वज्रविदारितोऽचलः॥ 8-97-55(59767)
मणिप्रवेकोत्तमवज्रहाटकै--
रलङ्कृतं चास्य वराङ्गभूषणम्।
प्रविद्धमुर्व्यां निपपात पत्रिभि--
र्धनञ्जयेनोत्तमकुण्डलेपि च॥ 8-97-56(59768)
महाधनं शिल्पिवरैः प्रयत्नतः
कृतं यदस्योत्तमवर्म भास्वरम्।
सुदीर्घकालेन ततोऽस्य पाण्डवः
क्षणेन बाणैर्बहुधा व्यशातयत्॥ 8-97-57(59769)
`तस्येषुभिः खण्डितकुण्डलोऽन्तः
परिक्षतश्चाभ्यधिकं तदानीम्।
स लोहिताङ्गश्रवणश्चकाशे
सलोहिताङ्गश्रवणो यथा दिवि'॥ 8-97-58(59770)
स तं विवर्माणमथोत्तमेषुभिः
शितैश्चतुर्भिः कुपितः पराभिनत्।
स विव्यथेऽत्यर्थमरिप्रताडितो
यथाऽऽतुरः पित्तकफानिलज्वरैः॥ 8-97-59(59771)
महाधनुर्मण्डलनिःसृतैः शितैः
क्रियाप्रयत्नप्रहितैर्बलेन च।
ततक्ष कर्णं बहुभिः शरोत्तमै--
र्बिभेद मर्मस्वपि चार्जुनस्त्वरन्॥ 8-97-60(59772)
दृढाहतः पत्रिभिरुग्रवेगैः
पार्थेन कर्णो विविधैः शिताग्रैः।
बभौ गिरिर्गैरिकधातुरक्तः
क्षरन्प्रपातैरिव रक्तमम्भः॥ 8-97-61(59773)
[ततोऽर्जुनः कर्णमवक्रगैर्नवैः
सुवर्णपुङ्खैः सुदृढैरयस्मयैः।
यमाग्निदण्डप्रतिमैः स्तनान्तरे
पराभिनत्क्रौञ्चमिवाद्रिमग्निजः॥ 8-97-62(59774)
ततः शरावापमपास्य सूतजो
धनुश्च तच्छक्रशरासनोपमम्।
ततो रथस्थः स मुमोह च स्खलन्।
प्रशीर्णमुष्टिः सुभृशाहतः प्रभो॥ 8-97-63(59775)
न चार्जुनस्तं व्यसने तदेषिवा--
न्निहन्तुमार्यः पुरुषव्रते स्थितः।
ततस्तमिन्द्रावरजः सुसम्भ्रमा--
दुवाच किं पाण़्डव हे प्रमाद्यसे॥ 8-97-64(59776)
नैवाहितानां सततं विपश्चितः
क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम्।
विशेषतोऽरीन्व्यसनेषु पण्डितो
निहत्य धर्मं च यशश्च विन्दते॥ 8-97-65(59777)
तदेकवीरं तव चाहितं सदा
त्वरस्व कर्णं सहसाऽभिमर्दितुम्।
पुरा समर्थः समुपैति सूतजो
भिन्धि त्वमेनं नमुचिं यथा हरिः॥ 8-97-66(59778)
ततस्तदेवेत्यभिपूज्य सत्वरं
जनार्दनं कर्णमविध्यदर्जुनः।
शरोत्तमैः सर्वकुरूत्तमस्त्वरं--
स्तथा यथा शम्बरहा पुरा बलिम्॥] 8-97-67(59779)
साश्वं तु कर्णं सरथं किरीटि
समाचिनोद्भारत वत्सदन्तैः।
प्रच्छादयामास दिशश्च बाणैः
सर्वप्रयत्नात्तपनीयपुङ्खैः॥ 8-97-68(59780)
सवत्सदन्तैः पृथुपीनवक्षाः
समाचितः सोऽधिरथिर्विभाति।
सुपुष्पिताशोकपलाशशाल्मलि--
र्यथाऽचलश्चन्दनकाननायुतः॥ 8-97-69(59781)
शरैः शरीरे बहुभिः समर्पितै--
र्विभाति कर्णः समरे विशाम्पते।
महीरुहैराचितसानुकन्दरो
यथा गिरीन्द्रः स्फुटकर्णिकारवान्॥ 8-97-70(59782)
स वाणसङ्घान्बहुधा व्यवासृजन्
विभाति कर्णः शरजालरश्मिवान्।
स लोहितो रक्तगभस्तिमण्डलो
दिवाकरोऽस्ताभिमुखो यथा तथा॥ 8-97-71(59783)
बाह्वन्तरादाधिरथेर्विमुक्तान्
बाणान्महाहीनिव दीप्यमानान्।
व्यध्वंसयन्नर्जुनबाहुमुक्ताः
शराः समासाद्य दिशः शिताग्राः॥ 8-97-72(59784)
[ततः स कर्णः समवाप्य धैर्यं
बाणान्विमुञ्चन्कुपिताहिकल्पान्।
विव्याध पार्थं दशभिः पृषत्कैः
कृष्णं च ष़ड्भिः कुपिताहिकल्पैः॥ 8-97-73(59785)
ततः किरीटि भृशमुग्रनिःस्वनं
महाशरं सर्पविषानलोपमम्।
अयस्मायं रौद्रमहास्त्रसम्भृतं
महाहवे क्षेप्तुमना महामतिः॥] 8-97-74(59786)
कालो ह्यदृश्यो नृप विप्रशापा--
न्निदर्शयन्कर्णवधं ब्रुवाणः।
भूमिस्तु चक्रं ग्रसतीत्यवोच--
त्कर्णस्य तस्मिन्वधकाल आगते॥ 8-97-75(59787)
न चास्य घोरं प्रतिभाति चास्त्रं
यद्भार्गवोऽस्मै प्रददौ महात्मा।
चक्रं च वामं ग्रसते भूमिरस्य
प्राप्ते तस्मिन्वधकाले नृवीर॥ 8-97-76(59788)
ततो रथो घूर्णितवान्नरेन्द्र
शापात्तदा ब्राह्मणसत्तमस्य।
प्राप्तं वधं शंसति चाप्यथास्त्रं
प्रणश्यमानं द्विजमुख्यशापात्॥ 8-97-77(59789)
[ततश्चक्रमपतत्तस्य भूमौ
स विह्वलः समरे सूतपुत्रः।
सवेदिकश्चैत्य इवातिमात्रः
सुपुष्पितो भूमितले निमग्नः]॥ 8-97-78(59790)
मग्ने रथे ब्राह्मणशापमूढो
ह्यस्त्रं च तं मोघमिषु च सर्पम्।
अमृष्यमाणो व्यसनानि तानि
हस्तौ विधुन्वन्विजगर्ह धर्मम्॥ 8-97-79(59791)
धर्मप्रधानं किल पाति धर्म
इत्यब्रुवन्धर्मविदः सदैव।
वयं च धर्मे प्रयताम नित्यं
चर्तुं यथाशक्ति यथाश्रुतं च।
स चापि निघ्नाति न पाति भक्तान्
मन्ये न नित्यं परिपाति धर्मः॥ 8-97-80(59792)
एवं ब्रुवन्प्रस्खलिताश्वसूतो
विचाल्यमानोऽर्जुनबाणपातैः।
मर्माभिघाताच्छिथिलः क्रियासु
पुनः पुनर्धर्ममसौ जगर्ह॥ 8-97-81(59793)
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे।
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः॥ 8-97-82(59794)
ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्मगान्।
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान्॥ 8-97-83(59795)
निर्भिद्य ते भीमवेगा ह्यपतन्पृथिवीतले।
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत्॥ 8-97-84(59796)
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत्।
ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत्॥ 8-97-85(59797)
गाण्डीवं ज्यां च बाणांश्च सोऽनुमन्त्र्य परन्तपः।
व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः॥ 8-97-86(59798)
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः।
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात्। 8-97-87(59799)
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः॥
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते।
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान्॥ 8-97-88(59800)
ततो ब्रह्मास्त्रमत्युग्रं सम्मन्त्र्य समयोजयत्।
छादयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः॥ 8-97-89(59801)
ततः कर्णः शितैर्बाणैर्ज्यां चिच्छेद सुतेजनैः।
[द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा॥ 8-97-90(59802)
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम्।
नवमीं दशमीं चास्य तथा चैकादशीं वृषः।
ज्याशतं शतसन्धानः स कर्णो नावबुध्यते॥] 8-97-91(59803)
ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः।
शरैरवाकिरत्कर्णं दीप्यमानैरिवाहिभिः॥ 8-97-92(59804)
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे।
नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत्॥ 8-97-93(59805)
अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः।
चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन्॥ 8-97-94(59806)
ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम्।
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च॥ 8-97-95(59807)
ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम्।
अश्मसारमं दिव्यमभिमन्त्र्यं परन्तपः।
रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटिने॥ 8-97-96(59808)
ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप॥ 8-97-97(59809)
[ततोऽवतीर्य राधेयो रथादाशु समुद्यतः।
चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः॥ 8-97-98(59810)
सप्तद्वीपा वसुमती सशैलवनकानना।
गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम्॥ 8-97-99(59811)
ग्रस्तचक्रस्तु राधेयः क्रोधादश्रूण्यवर्तयत्।
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत्॥ 8-97-100(59812)
भोभो पार्थ महेष्वास मुहुर्तं परिपालय।
यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात्॥ 8-97-101(59813)
सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम।
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय॥ 8-97-102(59814)
न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि।
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु।
विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव॥ 8-97-103(59815)
प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ।
शरणागते न्यस्तशस्त्रेयाचमाने तथाऽर्जुन॥ 8-97-104(59816)
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा।
न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः॥ 8-97-105(59817)
त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव।
अभिज्ञो युद्धधर्माणां तस्मात्क्षम मुहूर्तकम्॥ 8-97-106(59818)
दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि।
यावच्चक्रमिदं ग्रस्तमुद्वरामि महाभुज॥ 8-97-107(59819)
न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि।
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम्॥ 8-97-108(59820)
त्वं हि क्षत्रियदायादो महालकुलविवर्धनः।
अतस्त्वां प्रबवीम्येष मुहूर्तं क्षम पाण़्डव॥ ॥ 8-97-109(59821)

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तनवतितमोऽध्यायः॥ 97 ॥

[विना किरीटं शंशुभे स पार्थः।
श्यामो युवा नील इवोच्चशृङ्गः।
ततः समुद्ग्रथ्य सितेन वाससा
स्वमूर्धजानव्यथितस्तदाऽर्जुनः।
विभासितः सूर्यमरीचिना दृढं
शिरोगतेनोदयपर्वतो यथा॥ 8-97-1(59822)
गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसम्प्रेषिता
गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभं
दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै
गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशं 8-97-2(59823)
स सायकः कर्णभुजप्रसृष्टो
हुताशनार्कप्रतिमो महार्हः।
महोरगः कृतवैरोऽर्जुनेन
किरीटमाहत्य ततो व्यतीयात्॥ 8-97-3(59824)
तं चापि दग्ध्वा तपनीयचित्रं
किरीटमाकृष्य तदर्जुनस्य।
इयेष गन्तुं पुनरेव तूणं
दृष्टश्च कर्णेन ततोऽब्रवीत्तम्॥ 8-97-4(59825)
मुक्तस्त्वयाऽहं त्वसमीक्ष्य कर्ण
शिरो हृतं यन्न मयाऽर्जुनस्य।
समीक्ष्य मां मुञ्च रणे त्वमाशु
हन्ताऽस्मि शत्रुं तव चात्मनश्च॥ 8-97-5(59826)
स एवमुक्तो युधि सूतपुत्र--
स्तम्ब्रवीत्को भवानुग्ररूपः।
नागोऽब्रवीद्विद्वि कृतागसं मां
पार्थेन मातुर्वधजातवैरम्॥ 8-97-6(59827)
यदि स्वयं वज्रधरोऽस्य गोप्ता
तथापि याता पितृराजवेश्मनि। 8-97-7(59828)
कर्ण उवाच।
न नाग कर्णोऽद्य रणे परस्य
बलं समास्थाय जयं बुभूषेत्॥ 8-97-7x(5065)
न संदध्यां द्विः शरं चैव नाग
यद्यर्जुनानां शतमेव हन्याम्।
तमाह कर्णः पुनरेव नागं
तदाऽजिमध्ये रविसूनुसत्तमः॥ 8-97-8(59829)
व्यालास्त्रसर्गोत्तमयत्नमन्युभि--
र्हन्ताऽस्मि पार्थं सुसुखी व्रज त्वम्।
इत्येवमुक्तो युधि नागराजः
कर्णेन रोषादसहंस्तस्य वाक्यम्॥ 8-97-9(59830)
स्वयं प्रायात्पार्थवधाय राजन्
कृत्वा स्वरूपं विजिघांसुरुग्रः।
ततः कृष्णः पार्थमुवाच सङ्ख्ये
महोरगं कृतवैरं जहि त्वम्॥ 8-97-10(59831)
8-97-11(59832)
स एवमुक्तो मधुसूदनेन
गाण्डीवधन्वा रिपुवीर्यसाहः।
उवाच को ह्येष ममाद्य नागः
स्वयं य आयाद्गरुडस्य वक्त्रम्॥]
Mahabharata - Karna Parva - Chapter Footnotes
8-97-16 बाणजालैकमयं दृष्ट्वेति शेषः॥ 8-97-30 पदा विनिष्पिष्य रथोत्तमं स प्रावेशयत्पृथिवीं किञ्चिदेव। क्षितिं गता जानुभिस्तेऽथ वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः इति झ.पाठः॥ 8-97-48 गते गमिते। विभुः समर्थः॥ 8-97-49 बर्हिणानां बर्हा एव वाजाः पक्षाः सञ्जाता येषां तैर्बर्हिणबर्हवाजितैः॥ 8-97-62 अग्निजः कार्तिकेयः॥ 8-97-64 ईषिवान् मनसि कृतवान्॥ 8-97-78 चैत्यः सवेदिको ग्रामसूचको महाद्रुमः॥ 8-97-89 प्रत्यस्यत्प्रतिप्राक्षितत्॥ 8-97-95 अभ्यस पुनः पुनः अस्त्रं आतिष्ठ वज प्रेरयेत्यब्रवीदिति योजना। ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम् इति झ.पाठः॥ 8-97-96 क्षेप्तुकामः किरीटवान् इति झ. पाठः॥ 8-97-97 सप्तनवतितमोऽध्यायः॥ 8-97-* एतदारभ्य गरुडस्य वक्रं इत्यन्तानां चतुर्णां श्लोकानां स्थाने अधोदृश्यमाना एकादश श्लोका झ.पुस्तके विद्यन्ते 8-97-2 गोकर्णा मुकुटं जहारेत्यन्वयः। अर्जुनस्य मुकुटहरणमपि महत्कर्मेति सूचयन्मुकुटं विशिनष्टि। गवि चक्षुषि कर्णो यस्याः सा गोकर्णा चक्षुःश्रवाः सर्पिणी अर्जुनेन खाण्डवे निहता सती इह निमित्तभूता तस्य मुकुटमेव हृतवती नतु शिरः। अथं हताया हनननिमित्तत्वमत आह। सुमुखी कृतेन इषुणा मोपुत्रसम्प्रेषिता। सन्धिरविवक्षितत्वान्न भवति। शोभनं पुत्रजीवकरं मुखं यस्याः सा सुमुखी। सा हि पुत्रं निगीर्य दह्यमानात् खाण़्वादुत्पतन्ती शिरोदेशे अर्जुनेन च्छिन्ना सती स्वयं मृतां पुत्रं च रक्षितवतीत्यादिपर्वण्युपाख्यायते। कृतेन स्वयं निर्मितेन पुत्रेण त्रातेन इषुणा इथुभावं गतेन। आत्मा वै पुत्रनामासीति श्रुतेरिष्वाकारपुत्ररूपेण सम्पन्ना सती। गोमतो रश्मिमतोऽर्कस्य पुत्रेण कर्णेन प्रेषिता। इषुणेतीत्थम्भावे तृतीया। गोपुत्रेति मतुब्लोप आर्षः। किङ्कृत्वा मुकुटं जहारेत्यत आह। सुव्यक्तगोऽसुप्रभं गोगतकं दृष्ट्वा सुव्यक्ताः अतिशयेनाविर्भूता गावो रश्मयस्तेज इति यावत्। सुव्यक्तैर्गोभिरसुभिश्च प्रकर्षेण भासमानं प्रदेशो लक्ष्यते। तत्र गतं विद्यमानं कं शिरो यस्य तम्। अर्जुनस्य ग्रीवादेशं कर्णेन लक्षीकृतं विज्ञाय भगवता स्वभारेणाश्वेषु जानुभ्यामवनीं गमितेषु रश्मिभिः समसूत्रदेशेऽर्जुनस्य शिरो दृष्ट्वापि वेगातिशयात्स्वयं नीचीभवितुमशक्ता सती तद्देशस्थं मुकुटं जहारेत्यर्थः। गोशब्दात्मजभूषणं सुविहितमिति। गौः पृथिवी तया शब्द्यते गोशब्दा अदितिः। इयं वा अदितिरिति पृथिव्या अदितेर्निर्देशात्। तस्या आत्मजस्येन्द्रस्य भूषणं सुविहितं वेधसेति शषः। तथाचात्रैवोक्तम्। पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्विधिना स्वयम्भुवेति। कीदृशं मुकुटम्। वै निश्चितं प्रसिद्धं वा। गोशब्दगोपूरि गोभि रश्मिभिः शब्द्यते रश्मिमानिति कथ्यत इति सूर्यस्तस्येव भुव नगर्भव्यापिनो गावः किरणास्तैर्भुवनं पूरयितुं शीलमस्य तत्तथा। सूर्यसमप्रभमित्यर्थः। ननु चेतनाधिष्ठितो बाणः पुनरेत्या र्जुनं कुतो न हतवानित्यत आह। गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशमिति। गोकर्णं सर्पं पुनरर्जुनं हन्तुमिच्छन्तमसनेन बाणक्षेपेण मर्दयति यः स तथाभूतोऽर्नुनश्च तमेव सर्पमनवाप्य मृत्योर्वशं न ययौ। सर्पस्य पुनरागमनं वधश्चात्रैव कीर्त्यते। गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयो। स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि। नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमस्विति कोशः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.